સુર્ય- ॐ जपाकुसुम संकाशं काश्यपेयं महाद्युतिम्, तमोऽरिं सर्व पापघ्नं प्रणतोऽस्मि दिवाकरम्.
ચંદ્ર- दधिशंख तुषाराभं क्षीरोदार्णव संभवम्, नमामि शशिनं सोमं शंभोर्मुकुट भूषणम्.
મંગલ- धरणी गर्भ संभूतं विद्युत्कांति समप्रभ, कुमारं शक्ति हस्तं च मंगलं प्रणामाम्यहम्.
બુધ- प्रियंगुकलिकाश्यामं रुपेणाप्रतिं बुधम्, सौम्यं सौम्यगुणोपेत तं बुधं प्रणामाम्यहम्.
ગુરુ- देवानां च ऋषिणां च गुरुं कांचन सन्निभम्, बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम्.
શુક્ર- हिमकुंद मृणालाभं दैत्यनां परं गुरुम्, सर्व शास्त्र प्रवक्तारं भार्गवं प्रणामाम्यहम्.
શની- नीलांजन समाभासं रविपुत्र यमाग्रजम्, छायामार्तंड संभूतं तं नमामि शनैश्चरम्.
રાહુ- अर्धकाय महावीर्यं चंद्रादित्य विमर्दनम्, सिंहिकागर्भ संभूतं तं राहुं प्रणामाम्यहम्.
કેતુ- पलाशपुष्प संकाशं तारकाग्रह मस्तकम् रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणामाम्यहम्.